UA-199656512-1
top of page

श्रीगौरकृपाकटाक्षस्त्रोत्रम्

श्रीचैतन्यप्रेमताण्डवस्तोत्रम्

श्रीगौरकृपाकटाक्षस्त्रोत्रम्


महान्तवृन्दवन्दितं त्रितापशोकनाशिनं,

विशेषवेशभूषितं सदा स्मितोज्ज्वलाननं ।

प्रमत्तमत्तमादितं स्वनामगानरोदितं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 1 ।।


सुवर्णवर्णशोभितं प्रवेष्टजानुलम्बितं,

सुदीर्घदेहधारिणं कलापहेमभूषितं ।

अरालनीलकुन्तलं कबन्धपत्रलोचनं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 2 ।।


सुरासुराञ्चसेवितं मनोज्ञतुण्डमण्डितं,

विराजितंश्रुतिद्वयं सुमन्दनृत्यकुण्डलं ।

हरिप्रियागलेस्थितं विशालवक्षलक्षितं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 3 ।।


अनादिनादकारणं परात्परंविभूंवरं,

गुणालयार्त्ततारणं प्रबुद्धशुद्धरूपिणं ।

महाभयापहारिणं भवाब्धिपारपाहिनं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 4 ।।


सुशुभ्रपुष्पवाससं विनोदमोदमोहनं,

विचित्ररत्नरञ्जितं सुगन्धचन्दनोर्चितं ।

दिशानिशामृशाकरं स्वरूपधिष्णकारणं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 5 ।।


ललाटकालपुण्ड्रकं दिवाकरम्पराजितं

मनोहरञ्चनासिकं विकर्तनोष्ठभासितं ।

सुरेशशेषशेखरं महेशमोहभञ्जनं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 6 ।।


अनेकमन्त्रमर्चितं दिवौकसञ्चपूजितं,

विरक्तमूक्तमानसं दयाद्रभद्रभावनं ।

हिरण्यगर्भगर्भिणं सदाशयञ्चशायितं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 7 ।।


सनातनादिकारणं स्वधर्मनिष्ठनायकं,

सहस्रदिव्यभास्करं करांकुशांघ्रितेजसं ।

प्रवीणधीरचिन्तितं कलौचछन्नविग्रहं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 8 ।।


सुनृत्यकेलिनागरं मनोज्ञगीतगायकं,

त्रिभङ्गरङ्गभङ्गितं स्वनादवाद्यवादकं ।

चतुर्दिशाञ्चकम्पितं समस्तलोकहर्षितं,

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 9 ।।


दयादरिद्रमोचनं सुलोचनार्त्तत्राहिनं

सुदण्डदानदक्षिणं सहस्रमण्डभक्षिणं ।

प्रभाकरम्प्रभामयं स्वकान्तिदग्धगौरवं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 10 ।।


कुदर्पखर्वखेलनं सदुष्टकाजिमर्दनं

प्रपन्नखिन्नपावकं सुभक्तमुक्तकारणं ।

कटाक्षभक्षभाण्डरं पतङ्गतुङ्गतापिनं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 11 ।।


करेणुगर्वखर्वितं सुमन्दछन्दधावनं

विदग्धदक्षद्राघिमं कलाविलासभावनं ।

अनङ्गरङ्गभङ्गितं मनोज्ञभोग्यलालितं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 12 ।।


विनोदमोदमज्जितं निकुंजमञ्जुमाशिनं

वशानिहारवर्ज्जितं सुदिव्यभावभूषणं ।

रसोकलापध्यायिनं समञ्जसेविभूषणं

भजे कृपाकरम्परं विमुग्ध गौरदेशिकम् ।। 13 ।।


पतङ्गकान्तिवसनं शिखाचसूत्रवर्जितं

सुदीनहीनवेशिनं हरेर्गुणानुवादिनं ।

विदेशदेशभ्रमितं महास्वमन्त्रगायितं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 14 ।।


समग्रशास्त्रपारकं कलाविलासनैपुणं

स्वसङ्गिरङ्गेरञ्जितं प्रचण्डताण्डवप्रियं ।

हरीहरीहुहुंकृतं निनादधराकम्पितं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 15 ।।


दशावतारकारणं मुनेजनेनसेवितं

विचित्रवीर्यवर्हिणं उपेन्द्रसोदरोडितं ।

विशालतालव्यापकं कपोलभालसुन्दरं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 16 ।।


निवासीकाशीकर्षणं प्रबोधनन्दनन्दितं

प्रकाशकालसङ्गरं सुगुप्तभावभासितं ।

प्रवीणधीरध्यायितं विलुप्ततीर्थतारणं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 17 ।।



पथेपथेचभ्रमितं सुछन्दवद्धनर्तनं

मृगेन्द्रनागहर्षितं विहङ्गसङ्गसहितं ।

दिशादशंसुगन्धितं स्वगात्रसौरभान्वितं

भजे कृपाकरम्परं विमुग्धगौरदेशिकम् ।। 18 ।।


इतीदमद्भूतंस्तवं पुमान्पठन्तिमानसं,

त्रितापसर्वनाशनं कृपाजुनन्तिनिश्चितं ।

अशेषदोषहारिणं भवाटवीनिवारणं

भक्तिमुक्ति दायकं च गौर प्राप्तिकारकम् ।। 19 ।।


नमस्तेगौरचन्द्राय अशेषक्लेशहारिणे ৷

नमो चैतन्यदेवाय भवत्रासान्निवारिणे ৷৷ 20 ॥


शक्तिपातेन गौरेण स्तवं मया विलिखितं ৷

न तु स्वबुद्धि कारणं कृपाशक्तिं हि तारणम् ৷৷ 21 ॥


इति श्रीचैतन्यदासानुदास गौडीयसम्प्रदायाचार्य्य पण्डित श्रीरघुनाथदास शास्त्रिणा विरचितं श्रीचैतन्यप्रेमताण्डवं च श्रीगौरकृपाकटाक्षस्तोत्रं समाप्तम् ৷৷

 
 
 

Comments


Be Inspired
International Mula Gaudiya Sampraday Trust 

Write Us

For Any Assistance Or  Query Please Email Or Call To Us

Imgaudiyas@gmail.com

+918439217878

Vrindavan,Uttar Pradesh, India

  • Facebook
  • Facebook
  • YouTube Social  Icon
  • Whatsapp social icon
  • YouTube Social  Icon
  • Twitter Social Icon
  • instagram social icon
  • Facebook Social Icon

Success! Message received.

bottom of page